|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.48. अध्यायः 048
Mahabharata - Sabha Parva - Chapter Topics
दत्तात्रेयनाम्नाऽवतीर्णस्य हरेः कार्तवीर्यार्जुनस्य वरदानादिकम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
भीष्ण उवाच॥
विष्णोः पुनर्महाभागः प्रादुर्भावो महात्मनः।
दत्तात्रेय इति ख्यात ऋषिरासीन्महायशाः॥ 2-48-1(13244)
तेन नष्टेषु वेदेषु क्रियासु च मखेषु च।
चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते॥ 2-48-2(13245)
अभवर्धति चाधर्मे सत्ये नष्टे स्थितेऽनृते।
प्रजासु क्षीयमाणासु धर्मे चामूलतां पते॥ 2-48-3(13246)
सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै।
चातुर्वर्ण्यमसङ्कीर्णं कृतं तेन महात्मना॥ 2-48-4(13247)
स एव वै यदा प्रादाद्धैहयाधिपतेर्वरम्।
तं हैहयानामधिपस्त्वर्जुनोऽभिप्रसादयन्॥ 2-48-5(13248)
वनं पर्यचरन्सम्यक्छुश्रूषुरनुसूयकः।
निर्ममो निरहङ्कारो दीर्घकालमतोषयत्॥ 2-48-6(13249)
आराध्य दत्तात्रेयं हि अगृङ्णात्स वरानिमान्।
आप्तादाप्ततरान्विप्राद्विद्वान्विद्वन्निषेवितात्॥ 2-48-7(13250)
ऋतेऽमरत्वं विप्रेण दत्तात्रेयेण धीमता।
वरैश्चतुर्भिः प्रवृत इमान्वव्रे वरान्नृपः॥ 2-48-8(13251)
श्रीमान्मनस्वी बलवान्सत्यवागनसूयकः।
सहस्रबाहुर्भूयासमेषु मे प्रथमो वरः॥ 2-48-9(13252)
जरायुजाण्डजं सर्वं सर्वं चैव चराचरम्।
शास्तुमिच्छामि धर्मेण द्वितीयस्त्वेष मे वरः॥ 2-48-10(13253)
पितृन्देवानृषीन्विप्रान्यजेयं विपुलैर्मखैः।
अमित्रांश्च शितैर्बाणैस्तृतीयो व्रर एष मे॥ 2-48-11(13254)
यस्य नासीन्न भविता न चास्ति सदृशः पुमान्।
इह वा दिवि वा लोके स मे हन्ता भवेदिति॥ 2-48-12(13255)
सोऽर्जुनः कृतवीर्यस्य वरः पुत्रोऽभवद्युधि।
स सहस्रं सहस्राणां माहिष्मत्यामवर्धत॥ 2-48-13(13256)
स भूमिमखिलां जित्वा द्वीपांश्चापि समुद्रिणः।
नभसीवाज्वलत्सूर्यः पुण्यैः कर्मभिर्जुनः॥ 2-48-14(13257)
इन्द्रद्वीपं कशेरुं च कामद्वीपं गभस्तितम्।
गन्धर्ववरुणद्वीपं सौहृष्टममितप्रभः॥ 2-48-15(13258)
पूर्वैरजितपूर्वांश्च द्वीपनजयदर्जुनः।
इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः॥ 2-48-16(13259)
न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः।
यदर्णवे प्रयातस्य वस्त्रं न परिषिच्यते॥ 2-48-17(13260)
सौवर्णं सर्वमप्यासीद्विमानवरमुत्तमम्।
चतुर्धा व्यभजद्राष्ट्रं तद्विभज्यान्वपालयत्॥ 2-48-18(13261)
एकांशेनाहरत्सेनामेकांशेनावसद्गृहान्।
यस्तु तस्य तृतीयांशो राज्ञोऽभूज्जनसङ्ग्रहे॥ 2-48-19(13262)
आप्तः परमकल्याणस्तेन यज्ञानकल्पयत्।
ये दस्यवो ग्रामचरा अरम्ये च वसन्ति ये॥ 2-48-20(13263)
चतुर्थेन तु सोंऽशेन तान्सर्वान्प्रत्यषेधयत्।
द्वाराणि नापिधीयन्ते पुरेषु नगरेषु च॥ 2-48-21(13264)
स एव राष्ट्रपालोऽभूत्स्रीपालोऽभवदर्जुनः।
स एवासीद्जापालः सः गोपालो विशाम्पते॥ 2-48-22(13265)
शतं वर्षसहस्राणामनुशिष्यार्जुनो महीम्।
दत्तात्रेयप्रसादेन एवं राज्यं चकार सः॥ 2-48-23(13266)
एवं बहूनि कर्माणि चक्रे लोकहिताय सः॥
दत्तात्रेय इति ख्यातः प्रादुर्भावो ह्ययं हरेः।
कथितो भरतश्रेष्ट शृणु भूयो महात्मनः॥ ॥ 2-48-24(13267)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि अष्टचतत्वारिंशोऽध्यायः॥ 48 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|